हितोपदेश मित्रलाभ:

हितोपदेश मित्रलाभ:

१. अजरामरवत्

अजरामरवत् प्राज्ञो विद्यामर्थे च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।। ३ ।।

२. विद्या ददाति विनयं

विद्या ददाति विनयं विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमानप्नोति धनाद्धर्म तत: सुखम् ।। ६ ।।

३. यन्नवे भाजने लग्न:

यन्नवे भाजने लग्न: संस्कारो नान्यथा भवेत् ।
कताच्छलेन बालानां नीतिस्तदिह कथ्यते ।। ८ ।।

४. अनेकसंशयोच्छेदि परोक्षार्थस्य

अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।
सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव स: ।। १० ।। 

५. यौवनं धनसंपत्ति:

यौवनं धनसंपत्ति: प्रभुत्वमविवेकिता ।
एकैकमप्यनर्थाय, किमु यत्र चतुष्टयम्? ।। ११ ।।

६. कोऽर्थ: पुत्रेण

कोऽर्थ: पुत्रेण जातेन यो न विद्वान्न धार्मिक: ।
कथञ्चित्स्वोदरभरा: किन्न शूकरशावका ।। १२ ।।

७. अजात-मृत-मूर्खाणां

अजात-मृत-मूर्खाणां वरमाद्यौ न चान्तिम: ।
सकृद्दु:खकरावाद्यवन्तिमस्तु पदे पदे ।। १३ ।।